|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.32. अध्यायः 032
Mahabharata - Virata Parva - Chapter Topics
दुर्योधनेन कीचकवधस्य भीमसेनकृतत्वसंभावनया पाण्डवानां तत्र स्थितिसंभावना ॥ 1 ॥ तथा भीष्माद्यनुमत्या सुशर्मणो विराटनगरंप्रति प्रेषणम् ॥ 2 ॥ सुशर्मणा विराटनगरमेत्य दक्षिणभागे गोग्रहम् ॥ 3 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-32-0x(3123)(29663)
ततः शारद्वतो वाक्यमित्युवाच कृतस्तदा।
युक्तं प्राप्तं च वृद्धेन पाण्डवान्प्रति भापितम् ॥ 1 ॥ 4-32-1(29664)
धर्मार्थसहितं श्लक्ष्णं सर्वं सत्यं सहेतुकम्।
तत्रानुरूपं भीष्मस्य ममापि वचनं शृणु ॥ 2 ॥ 4-32-2(29665)
तेषां चैव गतिस्तत्र र्निवासश्चानुचिन्त्यताम् ।
नीतिर्विधीयतां तत्र सांप्रतं या हिता भवेत् ॥ 3 ॥ 4-32-3(29666)
नावज्ञेयो रिपुस्तात प्राकृतोऽपि बुभूषता।
किं पुनः पाण्डवाः शूरा विद्वांसो बलिनस्तथा ॥ 4 ॥ 4-32-4(29667)
तस्मात्सत्रं प्रविष्टेषु पाण्डवेषु महात्मसु ।
गूढभावेषु छन्नेषु काले चोदयमागते ॥ 5 ॥ 4-32-5(29668)
स्वराष्ट्रे परराष्ट्रे च ज्ञातव्यं बलमात्मनः ।
उदयः पाण्डवानां च प्राप्तकालो न संशयः ॥ 6 ॥ 4-32-6(29669)
निवृत्तसमयाः पार्था महात्मानो महाबलाः ।
महोत्साहा भविष्यन्ति पाण्डवा ह्यमितौजसः ॥ 7 ॥ 4-32-7(29670)
तस्माद्बलं च कोशं च नातिश्चापि विधीयताम्।
यथा कालोदये प्राप्ते सम्यक् तैः संदधामहे ॥ 8 ॥ 4-32-8(29671)
यत्र यन्मन्यसे श्रेयो बुध्यस्व बलमात्मनः ।
नियतं सर्वमित्रेषु बलवत्स्वबलेषु च ॥ 9 ॥ 4-32-9(29672)
सारं फल्गु बलं ज्ञात्वा मध्यस्थं चापि भारत ।
स्वराष्ट्रपरराष्ट्रेषु ज्ञातव्यं बलमात्मनः ॥ 10 ॥ 4-32-10(29673)
अप्रहृशष्टं प्राहृष्टं वा संदधाम तथा परैः ।
साम्ना दानेन भेदेन दण्डेन बलिकर्मणा ॥ 11 ॥ 4-32-11(29674)
न्यायेनाक्रम्य च परान्बलाच्चानम्य दुर्बलान् ।
सान्त्वयित्वा च मित्राणि बलं चाभाष्यतां सुखम् ॥ 12 ॥ 4-32-12(29675)
स्वकोशबलसंवृद्धः सम्यक्सिद्धिमवाप्स्यसि ।
योत्स्यसे चापि बलिभिररिभिः प्रत्युपस्थितैः।
अन्यैस्त्वं पाण्डवैर्वाऽपि हीनैः स्वबलवाहनैः ॥ 13 ॥ 4-32-13(29676)
एवं सर्वं विनिश्चित्य व्यवहर्तासि न्यायतः।
यथाकालं मनुष्येन्द्र चिरं सुखमवाप्स्यसि ॥ 14 ॥ 4-32-14(29677)
भीष्माद्रोणकृपैरुक्ते कर्णदुःशासनादिभिः।
ततो दुर्योधनो वाक्यं श्रुत्वा तेषां महात्मनाम् ।
मुहूर्तमनुसंचिन्त्य सचिवानिदमब्रवीत् ॥ 15 ॥ 4-32-15(29678)
श्रुतमेतन्मया पूर्वं कथासु जनसंसदि।
धीराणां शास्त्रविदुषां प्राज्ञानां मतिनिश्चये ।
कृतिनां सारफल्गुत्वे जानामि नयचक्षुषा ॥ 16 ॥ 4-32-16(29679)
सत्वे बाहुबले धैर्ये प्राणे शारीरसंभवे।
सांप्रतं मानुषे लोके सदैत्यनरराक्षसे ॥ 17 ॥ 4-32-17(29680)
चत्वारस्तु नरव्याघ्रा बले शक्रोपमा भुवि।
उत्तमाः प्राणिनां तेषां नास्ति कश्चिद्बले ममः ॥ 18 ॥ 4-32-18(29681)
बलदेवश्च भीमश्च मद्रराजश्च वीर्यवान् ।
चतुर्थः कीचकस्तेषां पञ्चमं नानुशुश्रुमः ॥ 19 ॥ 4-32-19(29682)
अन्योन्यानन्तरबलाः परस्परजयैपिणः।
बाहूयुद्धमभीप्सन्तो नित्यं संरब्धमानसाः ॥ 20 ॥ 4-32-20(29683)
तेनाहमवगच्छामि प्रत्ययेन वृकोदरम्।
मनस्यभिनिविष्टं मे व्यक्तं जीवन्ति पाण्डवाः ॥ 21 ॥ 4-32-21(29684)
तत्राहं कीचकं मन्ये भीमसेनेन मारितम्।
सैरन्ध्रीं द्रौपदीं मन्ये नात्र कार्या विचारणा ॥ 22 ॥ 4-32-22(29685)
शङ्के कृष्णानिमित्तं तु भीमसेनेन कीचकः।
गन्धर्वव्यपदेशेन हतो निशि महाबलः ॥ 23 ॥ 4-32-23(29686)
को हि शक्तः परो भीमात्कीचकं हन्तुमोजसा ।
शस्त्रं विना बाहुबलात्तथा सर्वाङ्गचूर्णने ॥ 24 ॥ 4-32-24(29687)
मर्दितुं वा तथा तीव्रं चर्ममांसास्थिचूर्णनम् ।
रूपमन्यत्समास्थाय भीमस्यैतद्विचेष्टितम् ॥ 25 ॥ 4-32-25(29688)
ध्रुवं कृष्णानिमित्तं तु भीमसेनेन सूतजाः ।
गन्धर्वव्यपदेशेन हता निशि न संशयः ॥ 26 ॥ 4-32-26(29689)
पितामहेन ये चोक्ता देशस्य च जनस्य च।
गुणास्ते मत्स्यराष्ट्रेषु बहुशोऽपि मया श्रुताः ॥ 27 ॥ 4-32-27(29690)
विराटनगरे मन्ये पाण्डवाश्छन्नचारिणः।
निवसन्ति पुरे रम्ये तत्र यात्रा विधीयताम् ॥ 28 ॥ 4-32-28(29691)
मत्स्यराष्ट्रं गमिष्यामो ग्रहीष्यामश्च गोधनम्।
गृहीते गोधने नूनं तेऽपि योत्स्यन्ति पाण्डवाः॥ 29 ॥ 4-32-29(29692)
अपूर्णे समये चापि यदि पश्येम पाण्डवान्।
द्वादशान्यानि वर्षाणि प्रवेक्ष्यन्ति पुनर्वनम् ॥ 30 ॥ 4-32-30(29693)
तस्मादन्यतरेणापि लाभोऽस्माकं भविष्यति।
कोशवृद्धिरिहास्माकं शत्रूणां निधनं भवेत् ॥ 31 ॥ 4-32-31(29694)
कथं सुयोधनं गच्छेद्युधिष्ठिरभृतः पुरा।
एतच्चापि वदत्येष मात्स्यः परिभवान्मयि ॥ 32 ॥ 4-32-32(29695)
तस्मात्कर्तव्यमेतद्वै तत्र यात्रा विधीयताम्।
एतत्सुनीतं मन्येऽहं सर्वेषां यदि रोचते ॥ 33 ॥ 4-32-33(29696)
वैशम्पायन उवाच। 4-32-34x(3124)
ततो राजा त्रिगर्तानां सुशर्मा रथयूथपः।
पूर्वमाभाष्य कर्णेन तथा दुःशासनेन च।
प्राप्तकालमिदं वाक्यमुवाच त्वरितो बली ॥ 34 ॥ 4-32-34(29697)
असकृन्निकृतः पूर्वं मात्स्यसाल्वेयकेकयैः ।
सूतेनैव च मात्स्यस्य कीचकेन पुनः पुनः ॥ 35 ॥ 4-32-35(29698)
बाधितो बन्धुभिः सार्धं बलाद्बलवता विभो।
स कर्णमभिवीक्ष्याथ दुर्योधनमभाषत ॥ 36 ॥ 4-32-36(29699)
राष्ट्रं ममासकृद्राजन्राज्ञा मात्स्येन बाधितम् ॥ 37 ॥ 4-32-37(29700)
प्रणेता कीचकस्तस्य बलोत्सिक्तोऽभवन्पुरा।
अमर्षी दुर्जयो जेता प्रख्यातबलपौरुषः ।
स हतस्तत्र गन्धर्वैः पापकर्मा नृशंसकृत् ॥ 38 ॥ 4-32-38(29701)
तस्मिन्विनिहते राजन्हीनदर्पो निराश्रयः।
भविष्यति निरुत्साहो विराट इति मे मतिः ॥ 39 ॥ 4-32-39(29702)
तत्र यात्रा मम मता यदि ते रोचतेऽनघ।
कौरवाणां च सर्वेषां कर्णस्य च महात्मनः ॥ 40 ॥ 4-32-40(29703)
एतत्कार्यमहं मन्ये परमात्ययिकं महत्।
राष्ट्रं तस्याभियास्यामो धनधान्यसमाकुलम् ॥ 41 ॥ 4-32-41(29704)
आददामोऽस्य रत्नानि विविधानि वसूनि च।
ग्रामान्राष्ट्राणि वा तस्य हरिष्यामो विभागशः ॥ 42 ॥ 4-32-42(29705)
अथवा गोसहस्राणि बहूनि शुभदर्शन।
विविधानि हरिष्यामः प्रतीपीड्य पुरं बलात् ॥ 43 ॥ 4-32-43(29706)
कौरवैः सह संगमय त्रिगर्तैश्च विशांपते।
गास्तस्यापहरिष्यामः सह सर्वैर्महारथैः ॥ 44 ॥ 4-32-44(29707)
सन्धिं वा तेन कृत्वा तु निबध्नीमोऽस्य पौरुषम्।
हत्वा चास्य चमूं कृत्स्नां वशमेवानयामहे ॥ 45 ॥ 4-32-45(29708)
तं वशे न्यायतः कृत्वा सुखं वत्स्यामहे वयम्।
भवतां बलवृद्धिश्च भविष्यति न संशयः ॥ 46 ॥ 4-32-46(29709)
वैशम्पायन उवाच। 4-32-47x(3125)
तच्छ्रुत्वा वचनं तस्य कर्णो राजानमब्रवीत् ॥ 47 ॥ 4-32-47(29710)
सूक्तं सुशर्मणा वाक्यं प्राप्तकालमिदं वचः।
तस्मात्क्षिप्रं विनिर्यामो योजयित्वा वरूथिनीं ॥ 48 ॥ 4-32-48(29711)
यदेतत्तेऽभिरुचितं मम चैतद्धि रोचते।
प्रविभज्य च सैन्यानि यथा वा मन्यते भवान् ॥ 49 । 4-32-49(29712)
प्रज्ञावान्कुलवृद्धश्च सर्वेषां नः पितामहः।
आचार्यश्च कृपो विद्वाञ्शकुनिश्चापि सौबलः ॥ 50 ॥ 4-32-50(29713)
मन्यन्ते ते यथा सर्वे तथा यात्रा विधीयताम्।
संमन्त्र्य चाशु गच्छामः साधनार्थं महीपते ॥ 51 ॥ 4-32-51(29714)
किंनु नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः।
अत्यन्तं हि प्रनष्टास्ते प्राप्ता वाऽपि यमक्षयम् ॥ 52 ॥ 4-32-52(29715)
तद्भवांश्चतुरङ्गेण बलेन महता वृतः।
विराटनगरं यातु सर्वसैन्येन भारत।
आदास्यामोऽथ गास्तस्य विविधानि वसूनि च ॥ 53 ॥ 4-32-53(29716)
वैशम्पायन उवाच। 4-32-54x(3126)
ततो दुर्योधनो राजा वचः श्रुत्वा तु तस्य तत्।
वैकर्तनस्य कर्णस्य क्षिप्रमाज्ञापयत्स्वयम्।
शासने नित्ययुक्तं तु दुःशासनमनन्तरम् ॥ 54 ॥ 4-32-54(29717)
दुर्योधन उवाच। 4-32-55x(3127)
सह वृद्धैस्तु संमन्त्र्य क्षिप्रं योजय वाहिनीम्।
यथोद्देशं तु गच्छामः सहिताः सर्वकौरवैः ॥ 55 ॥ 4-32-55(29718)
सुशर्मा तु यथोद्दिष्टं देशं यातु महारथः।
त्रिगर्तैः सहितः सर्वैः प्रख्यातबलपौरुषैः।
प्रागेव हि सुसंयत्तो विराटनगरं प्रति ॥ 56 ॥ 4-32-56(29719)
जघन्यतो वयं तत्र यास्यामो दिवसान्तरे।
विषयं मत्स्यराजस्य सुसमृद्धं सुसंहितम् ॥ 57 ॥ 4-32-57(29720)
सुशर्मणा गृहीते तु मत्स्यराजस्य गोधने।
विराटः सैन्यमादाय त्रिगर्तैः सह योत्स्यति ॥ 58 ॥ 4-32-58(29721)
अपरं दिवसं गास्तु तत्र गृह्णन्तु कौरवाः।
गवार्थे पाण्डवास्तत्र योत्स्यन्ति कुरुभिः सह ॥ 59 ॥ 4-32-59(29722)
तथा गत्वा यथोद्देशं विराटनगरान्तिके।
क्षिप्रं गोष्ठं समासाद्य गृह्णन्तु विपुलं धनम् ॥ 60 ॥ 4-32-60(29723)
गवां शतसहस्राणि श्रीमन्ति गुणवन्ति च।
वयमस्य निगृह्णीमो द्विधा कृत्वा च वाहिनीम् ॥ 61 ॥ 4-32-61(29724)
वैशम्पायन उवाच। 4-32-62x(3128)
ते स्म गत्वा यथोद्दिष्टं देशं मत्स्यमहीपतेः।
संनद्धा रथिनः सर्वे सपताका बलोत्कटाः।
प्रतिवैरं चिकीर्षन्तो गोषु गृद्धा महाबलाः ॥ 62 ॥ 4-32-62(29725)
आदत्त गाः सुशर्माऽथ कृष्णपक्षस्य चाष्टमीम् ॥ 63 ॥ 4-32-63(29726)
अपरे दिवसे सर्वे राजन्संभूय कौरवाः।
नवम्यां ते न्यगृह्णन्त गोकुलानि सहस्रशः।
कौरवास्तु महावीर्या मत्स्यानां विषयान्तरे ॥ 64 ॥ ॥ 4-32-64(29727)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्वात्रिंशोऽध्यायः ॥ 32 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-32-31 तस्मादनन्तरेणापि लाभोऽस्माकमिति धo पाठः। तस्मात् गोग्रहणात अनन्तरेण युद्धायागतपाण्डवदर्शनेन ॥ 31 ॥ 4-32-32 युधिष्ठिरभृतः युधिष्ठिरो भृतो येन विराटेनेति बहुव्रीहिः ॥ 32 ॥ 4-32-63 कृष्णपक्षस्य सप्तमीमिति अष्टभ्यां तेऽन्यगृह्णन्तेति चo थo पाठः ॥ 63 ॥ 4-32- 64 विषयान्तरे उत्तरभागे ॥ 64 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|